Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 4 - The Creation of the Fourth Order Canto 4 - Creación del Cuarto Orden
>>
<<
24 - Chanting the Song Sung by Lord Śiva
>>
<<
24 - El himno del Señor Śiva
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
4.24.1
मैत्रेय उवाच
विजिताश्वोऽधिराजासीत्पृथुपुत्र: पृथुश्रवा: ।
यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सल: ॥ १ ॥
4.24.2
हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् ।
प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभु: ॥ २ ॥
4.24.3
अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञित: ।
अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥ ३ ॥
4.24.4
पावक: पवमानश्च शुचिरित्यग्नय: पुरा ।
वसिष्ठशापादुत्पन्ना: पुनर्योगगतिं गता: ॥ ४ ॥
4.24.5
अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत ।
य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान् ॥ ५ ॥
4.24.6
राज्ञां वृत्तिं करादानदण्डशुल्कादिदारुणाम् ।
मन्यमानो दीर्घसत्त्रव्याजेन विससर्ज ह ॥ ६ ॥
4.24.7
तत्रापि हंसं पुरुषं परमात्मानमात्मदृक् ।
यजंस्तल्लोकतामाप कुशलेन समाधिना ॥ ७ ॥
4.24.8
हविर्धानाद्धविर्धानी विदुरासूत षट्सुतान् ।
बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ८ ॥
4.24.9
बर्हिषत् सुमहाभागो हाविर्धानि: प्रजापति: ।
क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ ९ ॥
4.24.10
यस्येदं देवयजनमनुयज्ञं वितन्वत: ।
प्राचीनाग्रै: कुशैरासीदास्तृतं वसुधातलम् ॥ १० ॥
4.24.11
सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम् ।
यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम् ।
परिक्रमन्तीमुद्वाहे चकमेऽग्नि: शुकीमिव ॥ ११ ॥
4.24.12
विबुधासुरगन्धर्वमुनिसिद्धनरोरगा: ।
विजिता: सूर्यया दिक्षु क्वणयन्त्यैव नूपुरै: ॥ १२ ॥
4.24.13
प्राचीनबर्हिष: पुत्रा: शतद्रुत्यां दशाभवन् ।
तुल्यनामव्रता: सर्वे धर्मस्नाता: प्रचेतस: ॥ १३ ॥
4.24.14
पित्रादिष्टा: प्रजासर्गे तपसेऽर्णवमाविशन् ।
दशवर्षसहस्राणि तपसार्चंस्तपस्पतिम् ॥ १४ ॥
4.24.15
यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता ।
तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयता: ॥ १५ ॥
4.24.16
विदुर उवाच
प्रचेतसां गिरित्रेण यथासीत्पथि सङ्गम: ।
यदुताह हर: प्रीतस्तन्नो ब्रह्मन् वदार्थवत् ॥ १६ ॥
4.24.17
सङ्गम: खलु विप्रर्षे शिवेनेह शरीरिणाम् ।
दुर्लभो मुनयो दध्युरसङ्गाद्यमभीप्सितम् ॥ १७ ॥
4.24.18
आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे ।
शक्त्या युक्तो विचरति घोरया भगवान् भव: ॥ १८ ॥
4.24.19
मैत्रेय उवाच
प्रचेतस: पितुर्वाक्यं शिरसादाय साधव: ।
दिशं प्रतीचीं प्रययुस्तपस्यादृतचेतस: ॥ १९ ॥
4.24.20
ससमुद्रमुप विस्तीर्णमपश्यन् सुमहत्सर: ।
महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ २० ॥
4.24.21
नीलरक्तोत्पलाम्भोजकह्लारेन्दीवराकरम् ।
हंससारसचक्राह्वकारण्डवनिकूजितम् ॥ २१ ॥
4.24.22
मत्तभ्रमरसौस्वर्यहृष्टरोमलताङ्घ्रिपम् ।
पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ २२ ॥
4.24.23
तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् ।
विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु ॥ २३ ॥
4.24.24-25
तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम् ।
उपगीयमानममरप्रवरं विबुधानुगै: ॥ २४ ॥
तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् ।
प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुका: ॥ २५ ॥
4.24.26
स तान् प्रपन्नार्तिहरो भगवान्धर्मवत्सल: ।
धर्मज्ञान् शीलसम्पन्नान् प्रीत: प्रीतानुवाच ह ॥ २६ ॥
4.24.27
श्रीरुद्र उवाच
यूयं वेदिषद: पुत्रा विदितं वश्चिकीर्षितम् ।
अनुग्रहाय भद्रं व एवं मे दर्शनं
कृतम् ॥ २७ ॥
4.24.28
य: परं रंहस: साक्षात्त्रिरगुणाज्जीवसंज्ञितात् ।
भगवन्तं वासुदेवं प्रपन्न: स प्रियो हि मे ॥ २८ ॥
4.24.29
स्वधर्मनिष्ठ: शतजन्मभि: पुमान् विरिञ्चतामेति तत: परं हि माम् ।
अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधा: कलात्यये ॥ २९ ॥
4.24.30
अथ भागवता यूयं प्रिया: स्थ भगवान् यथा ।
न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३० ॥
4.24.31
इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् ।
नि:श्रेयसकरं चापि श्रूयतां तद्वदामि व: ॥ ३१ ॥
4.24.32
मैत्रेय उवाच
इत्यनुक्रोशहृदयो भगवानाह ताञ्छिव: ।
बद्धाञ्जलीन् राजपुत्रान्नारायणपरो वच: ॥ ३२ ॥
4.24.33
श्रीरुद्र उवाच
जितं त आत्मविद्वर्यस्वस्तये स्वस्तिरस्तु मे ।
भवताराधसा राद्धं सर्वस्मा आत्मने नम: ॥ ३३ ॥
4.24.34
नम: पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने ।
वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ ३४ ॥
4.24.35
सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च ।
नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ३५ ॥
4.24.36
नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने ।
नम: परमहंसाय पूर्णाय निभृतात्मने ॥ ३६ ॥
4.24.37
स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नम: ।
नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ३७ ॥
4.24.38
नम ऊर्ज इषे त्रय्या: पतये यज्ञरेतसे ।
तृप्तिदाय च जीवानां नम: सर्वरसात्मने ॥ ३८ ॥
4.24.39
सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे ।
नमस्त्रैलोक्यपालाय सह ओजोबलाय च ॥ ३९ ॥
4.24.40
अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने ।
नम: पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ४० ॥
4.24.41
प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे ।
नमोऽधर्मविपाकाय मृत्यवे दु:खदाय च ॥ ४१ ॥
4.24.42
नमस्त आशिषामीश मनवे कारणात्मने ।
नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे ।
पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ ४२ ॥
4.24.43
शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने ।
चेतआकूतिरूपाय नमो वाचो विभूतये ॥ ४३ ॥
4.24.44
दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् ।
रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४४ ॥
4.24.45-46
स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् ।
चार्वायतचतुर्बाहु सुजातरुचिराननम् ॥ ४५ ॥
पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् ।
सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥ ४६ ॥
4.24.47-48
प्रीतिप्रहसितापाङ्गमलकै रूपशोभितम् ।
लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुण्डलम् ॥ ४७ ॥
स्फुरत्किरीटवलयहारनूपुरमेखलम् ।
शङ्खचक्रगदापद्ममालामण्युत्तमर्द्धिमत् ॥ ४८ ॥
4.24.49
सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभम् ।
श्रियानपायिन्या क्षिप्तनिकषाश्मोरसोल्लसत् ॥ ४९ ॥
4.24.50
पूररेचकसंविग्नवलिवल्गुदलोदरम् ।
प्रतिसङ्क्रामयद्विश्वं नाभ्यावर्तगभीरया ॥ ५
4.24.51
श्यामश्रोण्यधिरोचिष्णुदुकूलस्वर्णमेखलम् ।
समचार्वङ्घ्रिजङ्घोरुनिम्नजानुसुदर्शनम् ॥ ५१ ॥
4.24.52
पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरघं विधुन्वता ।
प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ ५२ ॥
4.24.53
एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् ।
यद्भक्तियोगोऽभयद: स्वधर्ममनुतिष्ठताम् ॥ ५३ ॥
4.24.54
भवान् भक्तिमता लभ्यो दुर्लभ: सर्वदेहिनाम् ।
स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गति: ॥ ५४ ॥
4.24.55
तं दुराराध्यमाराध्य सतामपि दुरापया ।
एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहि: ॥ ५५ ॥
4.24.56
यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते ।
विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा ॥ ५६ ॥
4.24.57
क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ ५७ ॥
4.24.58
अथानघाङ्घ्रेस्तव कीर्तितीर्थयोरन्तर्बहि:स्नानविधूतपाप्मनाम् ।
भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ ५८ ॥
4.24.59
न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् ।
यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ ५९ ॥
4.24.60
यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् ।
तत् त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ ६० ॥
4.24.61
यो माययेदं पुरुरूपयासृजद् बिभर्ति भूय: क्षपयत्यविक्रिय: ।
यद्भेदबुद्धि: सदिवात्मदु:स्थया त्वमात्मतन्त्रं भगवन् प्रतीमहि ॥ ६१ ॥
4.24.62
क्रियाकलापैरिदमेव योगिन: श्रद्धान्विता: साधु यजन्ति सिद्धये ।
भूतेन्द्रियान्त:करणोपलक्षितं वेदे च तन्त्रे च त एव कोविदा: ॥ ६२ ॥
4.24.63
त्वमेक आद्य: पुरुष: सुप्तशक्तिस्तया रज:सत्त्वतमो विभिद्यते ।
महानहं खं मरुदग्निवार्धरा: सुरर्षयो भूतगणा इदं यत: ॥ ६३ ॥
4.24.64
सृष्टं स्वशक्त्येदमनुप्रविष्टश्चचतुर्विधं पुरमात्मांशकेन ।
अथो विदुस्तं पुरुषं सन्तमन्तर्भुङ्क्ते हृषीकैर्मधु सारघं य: ॥ ६४ ॥
4.24.65
स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयान: ।
भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवाविषह्य: ॥ ६५ ॥
4.24.66
प्रमत्तमुच्चैरिति कृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् ।
त्वमप्रमत्त: सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तक: ॥ ६६ ॥
4.24.67
कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतन: ।
विशङ्कयास्मद्गुरुरर्चति स्म यद् विनोपपत्तिं मनवश्चतुर्दश ॥ ६७ ॥
4.24.68
अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् ।
विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गति: ॥ ६८ ॥
4.24.69
इदं जपत भद्रं वो विशुद्धा नृपनन्दना: ।
स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशया: ॥ ६९ ॥
4.24.70
तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् ।
पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ७० ॥
4.24.71
योगादेशमुपासाद्य धारयन्तो मुनिव्रता: ।
समाहितधिय: सर्व एतदभ्यसतादृता: ॥ ७१ ॥
4.24.72
इदमाह पुरास्माकं भगवान् विश्वसृक्पति: ।
भृग्वादीनामात्मजानां सिसृक्षु: संसिसृक्षताम् ॥ ७२ ॥
4.24.73
ते वयं नोदिता: सर्वे प्रजासर्गे प्रजेश्वरा: ।
अनेन ध्वस्ततमस: सिसृक्ष्मो विविधा: प्रजा: ॥ ७३ ॥
4.24.74
अथेदं नित्यदा युक्तो जपन्नवहित: पुमान् ।
अचिराच्छ्रेय आप्नोति वासुदेवपरायण: ॥ ७४ ॥
4.24.75
श्रेयसामिह सर्वेषां ज्ञानं नि:श्रेयसं परम् ।
सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ ७५ ॥
4.24.76
य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् ।
अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥ ७६ ॥
4.24.77
विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम् ।
मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् ॥ ७७ ॥
4.24.78
इदं य: कल्य उत्थाय प्राञ्जलि: श्रद्धयान्वित: ।
शृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनै: ॥ ७८ ॥
4.24.79
गीतं मयेदं नरदेवनन्दना: परस्य पुंस: परमात्मन: स्तवम् ।
जपन्त एकाग्रधियस्तपो महत् चरध्वमन्ते तत आप्स्यथेप्सितम् ॥ ७९ ॥
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library