Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 11 - Calculation of Time, from the Atom >>
<< 11 - Cálculo del tiempo a partir del Átomo >>

3..11..1मैत्रेय उवाच चरमः सद्विशेषाणामनेकोऽसंयुतः सदा परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः
3..11..2सत एव पदार्थस्य स्वरूपावस्थितस्य यत् कैवल्यं परममहानविशेषो निरन्तरः
3..11..3एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम संस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभुः
3..11..4स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् सतोऽविशेषभुग्यस्तु स कालः परमो महान्
3..11..5अणुर्द्वौ परमाणू स्यात्त्रसरेणुस्त्रयः स्मृतः जालार्करश्म्यवगतः खमेवानुपतन्नगात्
3..11..6त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः शतभागस्तु वेधः स्यात्तैस्त्रिभिस्तु लवः स्मृतः
3..11..7निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः क्षणान्पञ्च विदुः काष्ठां लघु ता दश पञ्च च
3..11..8लघूनि वै समाम्नाता दश पञ्च च नाडिका ते द्वे मुहूर्तः प्रहरः षड्यामः सप्त वा नृणाम्
3..11..9द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम्
3..11..10यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद
3..11..11तयोः समुच्चयो मासः पितॄणां तदहर्निशम् द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि
3..11..12अयने चाहनी प्राहुर्वत्सरो द्वादश स्मृतः संवत्सरशतं न्णां परमायुर्निरूपितम्
3..11..13ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत् संवत्सरावसानेन पर्येत्यनिमिषो विभुः
3..11..14संवत्सरः परिवत्सर इडावत्सर एव च अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते
3..11..15यः सृज्यशक्तिमुरुधोच्छ्वसयन्स्वशक्त्या पुंसोऽभ्रमाय दिवि धावति भूतभेदः कालाख्यया गुणमयं क्रतुभिर्वितन्वंस् तस्मै बलिं हरत वत्सरपञ्चकाय
3..11..16विदुर उवाच पितृदेवमनुष्याणामायुः परमिदं स्मृतम् परेषां गतिमाचक्ष्व ये स्युः कल्पाद्बहिर्विदः
3..11..17भगवान्वेद कालस्य गतिं भगवतो ननु विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा
3..11..18मैत्रेय उवाच कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितम्
3..11..19चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च
3..11..20सन्ध्यासन्ध्यांशयोरन्तर्यः कालः शतसङ्ख्ययोः तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते
3..11..21धर्मश्चतुष्पान्मनुजान्कृते समनुवर्तते स एवान्येष्वधर्मेण व्येति पादेन वर्धता
3..11..22त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम् तावत्येव निशा तात यन्निमीलति विश्वसृक्
3..11..23निशावसान आरब्धो लोककल्पोऽनुवर्तते यावद्दिनं भगवतो मनून्भुञ्जंश्चतुर्दश
3..11..24स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम्
3..11..25मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः भवन्ति चैव युगपत्सुरेशाश्चानु ये च तान्
3..11..26एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः
3..11..27मन्वन्तरेषु भगवान्बिभ्रत्सत्त्वं स्वमूर्तिभिः मन्वादिभिरिदं विश्वमवत्युदितपौरुषः
3..11..28तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये
3..11..29तमेवान्वपि धीयन्ते लोका भूरादयस्त्रयः निशायामनुवृत्तायां निर्मुक्तशशिभास्करम्
3..11..30त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना यान्त्यूष्मणा महर्लोकाज्जनं भृग्वादयोऽर्दिताः
3..11..31तावत्त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः प्लावयन्त्युत्कटाटोप चण्डवातेरितोर्मयः
3..11..32अन्तः स तस्मिन्सलिल आस्तेऽनन्तासनो हरिः योगनिद्रानिमीलाक्षः स्तूयमानो जनालयैः
3..11..33एवंविधैरहोरात्रैः कालगत्योपलक्षितैः अपक्षितमिवास्यापि परमायुर्वयःशतम्
3..11..34यदर्धमायुषस्तस्य परार्धमभिधीयते पूर्वः परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते
3..11..35पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदुः
3..11..36तस्यैव चान्ते कल्पोऽभूद्यं पाद्ममभिचक्षते यद्धरेर्नाभिसरस आसील्लोकसरोरुहम्
3..11..37अयं तु कथितः कल्पो द्वितीयस्यापि भारत वाराह इति विख्यातो यत्रासीच्छूकरो हरिः
3..11..38कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते अव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मनः
3..11..39कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईश्वरः नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम्
3..11..40विकारैः सहितो युक्तैर्विशेषादिभिरावृतः आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः
3..11..41दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः
3..11..42तदाहुरक्षरं ब्रह्म सर्वकारणकारणम् विष्णोर्धाम परं साक्षात्पुरुषस्य महात्मनः
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library