Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 4 - The Creation of the Fourth Order Canto 4 - Creación del Cuarto Orden
>>
<<
31 - Nārada Instructs the Pracetās
>>
<<
31 - Nārada instruye a los Pracetās
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
4.31.1
मैत्रेय उवाच
तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम् ।
स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ॥ १ ॥
4.31.2
दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा ।
प्रतीच्यां दिशि वेलायां सिद्धोऽभूद्यत्र जाजलि: ॥ २ ॥
4.31.3
तान्निर्जितप्राणमनोवचोदृशो जितासनान् शान्तसमानविग्रहान् ।
परेऽमले ब्रह्मणि योजितात्मन: सुरासुरेड्यो ददृशे स्म नारद: ॥ ३ ॥
4.31.4
तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च ।
पूजयित्वा यथादेशं सुखासीनमथाब्रुवन् ॥ ४ ॥
4.31.5
प्रचेतस ऊचु:
स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गत: ।
तव चङ्क्रमणं ब्रह्मन्नभयाय यथा रवे: ॥ ५ ॥
4.31.6
यदादिष्टं भगवता शिवेनाधोक्षजेन च ।
तद् गृहेषु प्रसक्तानां प्रायश: क्षपितं प्रभो ॥ ६ ॥
4.31.7
तन्न: प्रद्योतयाध्यात्मज्ञानं तत्त्वार्थदर्शनम् ।
येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम् ॥ ७ ॥
4.31.8
मैत्रेय उवाच
इति प्रचेतसां पृष्टो भगवान्नारदो मुनि: ।
भगवत्युत्तमश्लोक आविष्टात्माब्रवीन्नृपान् ॥ ८ ॥
4.31.9
नारद उवाच
तज्जन्म तानि कर्माणि तदायुस्तन्मनो वच: ।
नृणां येन हि विश्वात्मा सेव्यते हरिरीश्वर: ॥ ९ ॥
4.31.10
किं जन्मभिस्त्रिभिर्वेह शौक्रसावित्रयाज्ञिकै: ।
कर्मभिर्वा त्रयीप्रोक्तै: पुंसोऽपि विबुधायुषा ॥ १० ॥
4.31.11
श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभि: ।
बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा ॥ ११ ॥
4.31.12
किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोरपि ।
किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरि: ॥ १२ ॥
4.31.13
श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थत: ।
सर्वेषामपि भूतानां हरिरात्मात्मद: प्रिय: ॥ १३ ॥
4.31.14
यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखा: ।
प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्या ॥ १४ ॥
4.31.15
यथैव सूर्यात्प्रभवन्ति वार: पुनश्च तस्मिन्प्रविशन्ति काले ।
भूतानि भूमौ स्थिरजङ्गमानि तथा हरावेव गुणप्रवाह: ॥ १५ ॥
4.31.16
एतत्पदं तज्जगदात्मन: परं सकृद्विभातं सवितुर्यथा प्रभा ।
यथासवो जाग्रति सुप्तशक्तयो द्रव्यक्रियाज्ञानभिदाभ्रमात्यय: ॥ १६ ॥
4.31.17
यथा नभस्यभ्रतम:प्रकाशा भवन्ति भूपा न भवन्त्यनुक्रमात् ।
एवं परे ब्रह्मणि शक्तयस्त्वमू रजस्तम:सत्त्वमिति प्रवाह: ॥ १७ ॥
4.31.18
तेनैकमात्मानमशेषदेहिनां कालं प्रधानं पुरुषं परेशम् ।
स्वतेजसा ध्वस्तगुणप्रवाहमात्मैकभावेन भजध्वमद्धा ॥ १८ ॥
4.31.19
दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा ।
सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दन: ॥ १९ ॥
4.31.20
अपहतसकलैषणामलात्मन्यविरतमेधितभावनोपहूत: ।
निजजनवशगत्वमात्मनोऽयन्न सरति छिद्रवदक्षर: सतां हि ॥ २० ॥
4.31.21
न भजति कुमनीषिणां स इज्यां हरिरधनात्मधनप्रियो रसज्ञ: ।
श्रुतधनकुलकर्मणां मदैर्ये विदधति पापमकिञ्चनेषु सत्सु ॥ २१ ॥
4.31.22
श्रियमनुचरतीं तदर्थिनश्च द्विपदपतीन् विबुधांश्च यत्स्वपूर्ण: ।
न भजति निजभृत्यवर्गतन्त्र: कथममुमुद्विसृजेत्पुमान् कृतज्ञ: ॥ २२ ॥
4.31.23
मैत्रेय उवाच
इति प्रचेतसो राजन्नन्याश्च भगवत्कथा: ।
श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनि: ॥ २३ ॥
4.31.24
तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम् ।
हरेर्निशम्य तत्पादं ध्यायन्तस्तद्गतिं ययु: ॥ २४ ॥
4.31.25
एतत्तेऽभिहितं क्षत्तर्यन्मां त्वं परिपृष्टवान् ।
प्रचेतसां नारदस्य संवादं हरिकीर्तनम् ॥ २५ ॥
4.31.26
श्रीशुक उवाच
य एष उत्तानपदो मानवस्यानुवर्णित: ।
वंश: प्रियव्रतस्यापि निबोध नृपसत्तम ॥ २६ ॥
4.31.27
यो नारदादात्मविद्यामधिगम्य पुनर्महीम् ।
भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम् ॥ २७ ॥
4.31.28
इमां तु कौषारविणोपवर्णितां क्षत्ता निशम्याजितवादसत्कथाम् ।
प्रवृद्धभावोऽश्रुकलाकुलो मुनेर्दधार मूर्ध्ना चरणं हृदा हरे: ॥ २८ ॥
4.31.29
विदुर उवाच
सोऽयमद्य महायोगिन् भवता करुणात्मना ।
दर्शितस्तमस: पारो यत्राकिञ्चनगो हरि: ॥ २९ ॥
4.31.30
श्रीशुक उवाच
इत्यानम्य तमामन्त्र्य विदुरो गजसाह्वयम् ।
स्वानां दिदृक्षु: प्रययौ ज्ञातीनां निर्वृताशय: ॥ ३० ॥
4.31.31
एतद्यः शृणुयाद्राजन्राज्ञां हर्यर्पितात्मनाम् ।
आयुर्धनं यशः स्वस्ति गतिमैश्वर्यमाप्नुयात् ॥३१॥
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library