Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 4 - The Creation of the Fourth Order Canto 4 - Creación del Cuarto Orden
>>
<<
30 - The Activities of the Pracetās
>>
<<
30 - Actividades de los Pracetās
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
4.30.1
विदुर उवाच
ये त्वयाभिहिता ब्रह्मन् सुता: प्राचीनबर्हिष: ।
ते रुद्रगीतेन हरिं सिद्धिमापु: प्रतोष्य काम् ॥ १ ॥
4.30.2
किं बार्हस्पत्येह परत्र वाथ कैवल्यनाथप्रियपार्श्ववर्तिन: ।
आसाद्य देवं गिरिशं यदृच्छया प्रापु: परं नूनमथ प्रचेतस: ॥ २ ॥
4.30.3
मैत्रेय उवाच
प्रचेतसोऽन्तरुदधौ पितुरादेशकारिण: ।
जपयज्ञेन तपसा पुरञ्जनमतोषयन् ॥ ३ ॥
4.30.4
दशवर्षसहस्रान्ते पुरुषस्तु सनातन: ।
तेषामाविरभूत्कृच्छ्रं शान्तेन शमयन् रुचा ॥ ४ ॥
4.30.5
सुपर्णस्कन्धमारूढो मेरुशृङ्गमिवाम्बुद: ।
पीतवासा मणिग्रीव: कुर्वन्वितिमिरा दिश: ॥ ५ ॥
4.30.6
काशिष्णुना कनकवर्णविभूषणेन भ्राजत्कपोलवदनो विलसत्किरीट: ।
अष्टायुधैरनुचरैर्मुनिभि: सुरेन्द्रैरासेवितो गरुडकिन्नरगीतकीर्ति: ॥ ६ ॥
4.30.7
पीनायताष्टभुजमण्डलमध्यलक्ष्म्या स्पर्धच्छ्रिया परिवृतो वनमालयाद्य: ।
बर्हिष्मत: पुरुष आह सुतान् प्रपन्नान् पर्जन्यनादरुतया सघृणावलोक: ॥ ७ ॥
4.30.8
श्रीभगवानुवाच
वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दना: ।
सौहार्देनापृथग्धर्मास्तुष्टोऽहं सौहृदेन व: ॥ ८ ॥
4.30.9
योऽनुस्मरति सन्ध्यायां युष्माननुदिनं नर: ।
तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम् ॥ ९ ॥
4.30.10
ये तु मां रुद्रगीतेन सायं प्रात: समाहिता: ।
स्तुवन्त्यहं कामवरान्दास्ये प्रज्ञां च शोभनाम् ॥ १० ॥
4.30.11
यद्यूयं पितुरादेशमग्रहीष्ट मुदान्विता: ।
अथो व उशती कीर्तिर्लोकाननु भविष्यति ॥ ११ ॥
4.30.12
भविता विश्रुत: पुत्रोऽनवमो ब्रह्मणो गुणै: ।
य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति ॥ १२ ॥
4.30.13
कण्डो: प्रम्लोचया लब्धा कन्या कमललोचना ।
तां चापविद्धां जगृहुर्भूरुहा नृपनन्दना: ॥ १३ ॥
4.30.14
क्षुत्क्षामाया मुखे राजा सोम: पीयूषवर्षिणीम् ।
देशिनीं रोदमानाया निदधे स दयान्वित: ॥ १४ ॥
4.30.15
प्रजाविसर्ग आदिष्टा: पित्रा मामनुवर्तता ।
तत्र कन्यां वरारोहां तामुद्वहत मा चिरम् ॥ १५ ॥
4.30.16
अपृथग्धर्मशीलानां सर्वेषां व: सुमध्यमा ।
अपृथग्धर्मशीलेयं भूयात्पत्न्यर्पिताशया ॥ १६ ॥
4.30.17
दिव्यवर्षसहस्राणां सहस्रमहतौजस: ।
भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम ॥ १७ ॥
4.30.18
अथ मय्यनपायिन्या भक्त्या पक्वगुणाशया: ।
उपयास्यथ मद्धाम निर्विद्य निरयादत: ॥ १८ ॥
4.30.19
गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम् ।
मद्वार्तायातयामानां न बन्धाय गृहा मता: ॥ १९ ॥
4.30.20
नव्यवद्धृदये यज्ज्ञो ब्रह्मैतद्ब्रह्मवादिभि: ।
न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गता: ॥ २० ॥
4.30.21
मैत्रेय उवाच
एवं ब्रुवाणं पुरुषार्थभाजनं जनार्दनं प्राञ्जलय: प्रचेतस: ।
तद्दर्शनध्वस्ततमोरजोमला गिरागृणन् गद्गदया सुहृत्तमम् ॥ २१ ॥
4.30.22
प्रचेतस ऊचुः
नमो नमः क्लेशविनाशनाय निरूपितोदारगुणाह्वयाय ।
मनोवचोवेगपुरोजवाय सर्वाक्षमार्गैरगताध्वने नमः ॥२२॥
4.30.23
शुद्धाय शान्ताय नम: स्वनिष्ठया मनस्यपार्थं विलसद्द्वयाय ।
नमो जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय ॥ २३ ॥
4.30.24
नमो विशुद्धसत्त्वाय हरये हरिमेधसे ।
वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४ ॥
4.30.25
नम: कमलनाभाय नम: कमलमालिने ।
नम: कमलपादाय नमस्ते कमलेक्षण ॥ २५ ॥
4.30.26
नम: कमलकिञ्जल्कपिशङ्गामलवाससे ।
सर्वभूतनिवासाय नमोऽयुङ्क्ष्महि साक्षिणे ॥ २६ ॥
4.30.27
रूपं भगवता त्वेतदशेषक्लेशसङ्क्षयम् ।
आविष्कृतं न: क्लिष्टानां किमन्यदनुकम्पितम् ॥ २७ ॥
4.30.28
एतावत्त्वं हि विभुभिर्भाव्यं दीनेषु वत्सलै: ।
यदनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन ॥ २८ ॥
4.30.29
येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम् । अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिष: ॥ २९ ॥
4.30.30
असावेव वरोऽस्माकमीप्सितो जगत: पते ।
प्रसन्नो भगवान् येषामपवर्गगुरुर्गति: ॥ ३० ॥
4.30.31
वरं वृणीमहेऽथापि नाथ त्वत्परत: परात् ।
न ह्यन्तस्त्वद्विभूतीनां सोऽनन्त इति गीयसे ॥ ३१ ॥
4.30.32
पारिजातेऽञ्जसा लब्धे सारङ्गोऽन्यन्न सेवते ।
त्वदङ्घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि ॥ ३२ ॥
4.30.33
यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभि: ।
तावद्भवत्प्रसङ्गानां सङ्ग: स्यान्नो भवे भवे ॥ ३३ ॥
4.30.34
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ ३४ ॥
4.30.35
यत्रेड्यन्ते कथा मृष्टास्तृष्णाया: प्रशमो यत: ।
निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ ३५ ॥
4.30.36
यत्र नारायण: साक्षाद्भगवान्न्यासिनां गति: ।
संस्तूयते सत्कथासु मुक्तसङ्गै: पुन: पुन: ॥ ३६ ॥
4.30.37
तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया ।
भीतस्य किं न रोचेत तावकानां समागम: ॥ ३७ ॥
4.30.38
वयं तु साक्षाद्भगवन् भवस्य प्रियस्य सख्यु: क्षणसङ्गमेन ।
सुदुश्चिकित्स्यस्य भवस्य मृत्योर्भिषक्तमं त्वाद्य गतिं गता: स्म ॥ ३८ ॥
4.30.39-40
यन्न: स्वधीतं गुरव: प्रसादिता विप्राश्च वृद्धाश्च सदानुवृत्त्या ।
आर्या नता: सुहृदो भ्रातरश्च सर्वाणि भूतान्यनसूययैव ॥ ३९ ॥
यन्न: सुतप्तं तप एतदीश निरन्धसां कालमदभ्रमप्सु ।
सर्वं तदेतत्पुरुषस्य भूम्नो वृणीमहे ते परितोषणाय ॥ ४० ॥
4.30.41
मनु: स्वयम्भूर्भगवान् भवश्च येऽन्ये तपोज्ञानविशुद्धसत्त्वा: ।
अदृष्टपारा अपि यन्महिम्न: स्तुवन्त्यथो त्वात्मसमं गृणीम: ॥ ४१ ॥
4.30.42
नम: समाय शुद्धाय पुरुषाय पराय च ।
वासुदेवाय सत्त्वाय तुभ्यं भगवते नम: ॥ ४२ ॥
4.30.43
मैत्रेय उवाच
इति प्रचेतोभिरभिष्टुतो हरि: प्रीतस्तथेत्याह शरण्यवत्सल: ।
अनिच्छतां यानमतृप्तचक्षुषां ययौ स्वधामानपवर्गवीर्य: ॥ ४३ ॥
4.30.44
अथ निर्याय सलिलात्प्रचेतस उदन्वत: ।
वीक्ष्याकुप्यन्द्रुमैश्छन्नां गां गां रोद्धुमिवोच्छ्रितै: ॥ ४४ ॥
4.30.45
ततोऽग्निमारुतौ राजन्नमुञ्चन्मुखतो रुषा ।
महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥ ४५ ॥
4.30.46
भस्मसात्क्रियमाणांस्तान् द्रुमान्वीक्ष्य पितामह: ।
आगत: शमयामास पुत्रान् बर्हिष्मतो नयै: ॥ ४६ ॥
4.30.47
तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा ।
उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टा: स्वयम्भुवा ॥ ४७ ॥
4.30.48
ते च ब्रह्मण आदेशान्मारिषामुपयेमिरे ।
यस्यां महदवज्ञानादजन्यजनयोनिज: ॥ ४८ ॥
4.30.49
चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते ।
य: ससर्ज प्रजा इष्टा: स दक्षो दैवचोदित: ॥ ४९ ॥
4.30.50-51
यो जायमान: सर्वेषां तेजस्तेजस्विनां रुचा ।
स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन् ॥ ५० ॥
तं प्रजासर्गरक्षायामनादिरभिषिच्य च ।
युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन् ॥ ५१ ॥
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library