Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 2 - The Cosmic Manifestation Canto 2 - La Manifestación Cósmica
>>
<<
7 - Scheduled Incarnations with Specific Functions
>>
<<
7 - Encarnaciones programadas con funciones específicas
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
2.7.1
ब्रह्मोवाच
यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् क्रौडीं तनुं सकलयज्ञमयीमनन्तः
अन्तर्महार्णव उपागतमादिदैत्यं तं दंष्ट्रयाद्रिमिव वज्रधरो ददार
2.7.2
जातो रुचेरजनयत्सुयमान्सुयज्ञ आकूतिसूनुरमरानथ दक्षिणायाम्
लोकत्रयस्य महतीमहरद्यदार्तिं स्वायम्भुवेन मनुना हरिरित्यनूक्तः
2.7.3
जज्ञे च कर्दमगृहे द्विज देवहूत्यां स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे
ऊचे ययात्मशमलं गुणसङ्गपङ्कम् अस्मिन्विधूय कपिलस्य गतिं प्रपेदे
2.7.4
अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो दत्तो मयाहमिति यद्भगवान्स दत्तः
यत्पादपङ्कजपरागपवित्रदेहा योगर्द्धिमापुरुभयीं यदुहैहयाद्याः
2.7.5
तप्तं तपो विविधलोकसिसृक्षया मे आदौ सनात्स्वतपसः स चतुःसनोऽभूत्
प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं सम्यग्जगाद मुनयो यदचक्षतात्मन्
2.7.6
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां नारायणो नर इति स्वतपःप्रभावः
दृष्ट्वात्मनो भगवतो नियमावलोपं देव्यस्त्वनङ्गपृतना घटितुं न शेकुः
2.7.7
कामं दहन्ति कृतिनो ननु रोषदृष्ट्या रोषं दहन्तमुत ते न दहन्त्यसह्यम्
सोऽयं यदन्तरमलं प्रविशन्बिभेति कामः कथं नु पुनरस्य मनः श्रयेत
2.7.8
विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो बालोऽपि सन्नुपगतस्तपसे वनानि
तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात्
2.7.9
यद्वेनमुत्पथगतं द्विजवाक्यवज्र निष्प्लुष्टपौरुषभगं निरये पतन्तम्
त्रात्वार्थितो जगति पुत्रपदं च लेभे दुग्धा वसूनि वसुधा सकलानि येन
2.7.10
नाभेरसावृषभ आस सुदेविसूनुर् यो वै चचार समदृग्जडयोगचर्याम्
यत्पारमहंस्यमृषयः पदमामनन्ति स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः
2.7.11
सत्रे ममास भगवान्हयशीरषाथो साक्षात्स यज्ञपुरुषस्तपनीयवर्णः
छन्दोमयो मखमयोऽखिलदेवतात्मा वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः
2.7.12
मत्स्यो युगान्तसमये मनुनोपलब्धः क्षोणीमयो निखिलजीवनिकायकेतः
विस्रंसितानुरुभये सलिले मुखान्मे आदाय तत्र विजहार ह वेदमार्गान्
2.7.13
क्षीरोदधावमरदानवयूथपानाम् उन्मथ्नताममृतलब्धय आदिदेवः
पृष्ठेन कच्छपवपुर्विदधार गोत्रं निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डूः
2.7.14
त्रैपिष्टपोरुभयहा स नृसिंहरूपं कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम्
दैत्येन्द्रमाशु गदयाभिपतन्तमाराद् ऊरौ निपात्य विददार नखैः स्फुरन्तम्
2.7.15
अन्तःसरस्युरुबलेन पदे गृहीतो ग्राहेण यूथपतिरम्बुजहस्त आर्तः
आहेदमादिपुरुषाखिललोकनाथ तीर्थश्रवः श्रवणमङ्गलनामधेय
2.7.16
श्रुत्वा हरिस्तमरणार्थिनमप्रमेयश् चक्रायुधः पतगराजभुजाधिरूढः
चक्रेण नक्रवदनं विनिपाट्य तस्माद् धस्ते प्रगृह्य भगवान्कृपयोज्जहार
2.7.17
ज्यायान्गुणैरवरजोऽप्यदितेः सुतानां लोकान्विचक्रम इमान्यदथाधियज्ञः
क्ष्मां वामनेन जगृहे त्रिपदच्छलेन याच्ञामृते पथि चरन्प्रभुभिर्न चाल्यः
2.7.18
नार्थो बलेरयमुरुक्रमपादशौचम् आपः शिखाधृतवतो विबुधाधिपत्यम्
यो वै प्रतिश्रुतमृते न चिकीर्षदन्यद् आत्मानमङ्ग मनसा हरयेऽभिमेने
2.7.19
तुभ्यं च नारद भृशं भगवान्विवृद्ध भावेन साधु परितुष्ट उवाच योगम्
ज्ञानं च भागवतमात्मसतत्त्वदीपं यद्वासुदेवशरणा विदुरञ्जसैव
2.7.20
चक्रं च दिक्ष्वविहतं दशसु स्वतेजो मन्वन्तरेषु मनुवंशधरो बिभर्ति
दुष्टेषु राजसु दमं व्यदधात्स्वकीर्तिं सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रैः
2.7.21
धन्वन्तरिश्च भगवान्स्वयमेव कीर्तिर् नाम्ना नृणां पुरुरुजां रुज आशु हन्ति
यज्ञे च भागममृतायुरवावरुन्ध आयुष्यवेदमनुशास्त्यवतीर्य लोके
2.7.22
क्षत्रं क्षयाय विधिनोपभृतं महात्मा ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु
उद्धन्त्यसाववनिकण्टकमुग्रवीर्यस् त्रिःसप्तकृत्व उरुधारपरश्वधेन
2.7.23
अस्मत्प्रसादसुमुखः कलया कलेश इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे
तिष्ठन्वनं सदयितानुज आविवेश यस्मिन्विरुध्य दशकन्धर आर्तिमार्च्छत्
2.7.24
यस्मा अदादुदधिरूढभयाङ्गवेपो मार्गं सपद्यरिपुरं हरवद्दिधक्षोः
दूरे सुहृन्मथितरोषसुशोणदृष्ट्या तातप्यमानमकरोरगनक्रचक्रः
2.7.25
वक्षःस्थलस्पर्शरुग्नमहेन्द्रवाह दन्तैर्विडम्बितककुब्जुष ऊढहासम्
सद्योऽसुभिः सह विनेष्यति दारहर्तुर् विस्फूर्जितैर्धनुष उच्चरतोऽधिसैन्ये
2.7.26
भूमेः सुरेतरवरूथविमर्दितायाः क्लेशव्ययाय कलया सितकृष्णकेशः
जातः करिष्यति जनानुपलक्ष्यमार्गः कर्माणि चात्ममहिमोपनिबन्धनानि
2.7.27
तोकेन जीवहरणं यदुलूकिकायास् त्रैमासिकस्य च पदा शकटोऽपवृत्तः
यद्रिङ्गतान्तरगतेन दिविस्पृशोर्वा उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम्
2.7.28
यद्वै व्रजे व्रजपशून्विषतोयपीतान् पालांस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या
तच्छुद्धयेऽतिविषवीर्यविलोलजिह्वम् उच्चाटयिष्यदुरगं विहरन्ह्रदिन्याम्
2.7.29
तत्कर्म दिव्यमिव यन्निशि निः शयानं दावाग्निना शुचिवने परिदह्यमाने
उन्नेष्यति व्रजमतोऽवसितान्तकालं नेत्रे पिधाप्य सबलोऽनधिगम्यवीर्यः
2.7.30
गृह्णीत यद्यदुपबन्धममुष्य माता शुल्बं सुतस्य न तु तत्तदमुष्य माति
यज्जृम्भतोऽस्य वदने भुवनानि गोपी संवीक्ष्य शङ्कितमनाः प्रतिबोधितासीत्
2.7.31
नन्दं च मोक्ष्यति भयाद्वरुणस्य पाशाद् गोपान्बिलेषु पिहितान्मयसूनुना च
अह्न्यापृतं निशि शयानमतिश्रमेण लोकं विकुण्ठमुपनेष्यति गोकुलं स्म
2.7.32
गोपैर्मखे प्रतिहते व्रजविप्लवाय देवेऽभिवर्षति पशून्कृपया रिरक्षुः
धर्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त वर्षो महीध्रमनघैककरे सलीलम्
2.7.33
क्रीडन्वने निशि निशाकररश्मिगौर्यां रासोन्मुखः कलपदायतमूर्च्छितेन
उद्दीपितस्मररुजां व्रजभृद्वधूनां हर्तुर्हरिष्यति शिरो धनदानुगस्य
2.7.34-35
ये च प्रलम्बखरदर्दुरकेश्यरिष्ट मल्लेभकंसयवनाः कपिपौण्ड्रकाद्याः
अन्ये च शाल्वकुजबल्वलदन्तवक्र सप्तोक्षशम्बरविदूरथरुक्मिमुख्याः
ये वा मृधे समितिशालिन आत्तचापाः काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्याः
यास्यन्त्यदर्शनमलं बलपार्थभीम व्याजाह्वयेन हरिणा निलयं तदीयम्
2.7.36
कालेन मीलितधियामवमृश्य न्णां स्तोकायुषां स्वनिगमो बत दूरपारः
आविर्हितस्त्वनुयुगं स हि सत्यवत्यां वेदद्रुमं विटपशो विभजिष्यति स्म
2.7.37
देवद्विषां निगमवर्त्मनि निष्ठितानां पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः
लोकान्घ्नतां मतिविमोहमतिप्रलोभं वेषं विधाय बहु भाष्यत औपधर्म्यम्
2.7.38
यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः पाषण्डिनो द्विजजना वृषला नृदेवाः
स्वाहा स्वधा वषडिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भगवान्युगान्ते
2.7.39
सर्गे तपोऽहमृषयो नव ये प्रजेशाः स्थानेऽथ धर्ममखमन्वमरावनीशाः
अन्ते त्वधर्महरमन्युवशासुराद्या मायाविभूतय इमाः पुरुशक्तिभाजः
2.7.40
विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि
चस्कम्भ यः स्वरहसास्खलता त्रिपृष्ठं यस्मात्त्रिसाम्यसदनादुरुकम्पयानम्
2.7.41
नान्तं विदाम्यहममी मुनयोऽग्रजास्ते मायाबलस्य पुरुषस्य कुतोऽवरा ये
गायन्गुणान्दशशतानन आदिदेवः शेषोऽधुनापि समवस्यति नास्य पारम्
2.7.42
येषां स एष भगवान्दययेदनन्तः सर्वात्मनाश्रितपदो यदि निर्व्यलीकम्
ते दुस्तरामतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वशृगालभक्ष्ये
2.7.43-45
वेदाहमङ्ग परमस्य हि योगमायां यूयं भवश्च भगवानथ दैत्यवर्यः
पत्नी मनोः स च मनुश्च तदात्मजाश्च प्राचीनबर्हिरृभुरङ्ग उत ध्रुवश्च
इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि रघ्वम्बरीषसगरा गयनाहुषाद्याः
मान्धात्रलर्कशतधन्वनुरन्तिदेवा देवव्रतो बलिरमूर्त्तरयो दिलीपः
सौभर्युतङ्कशिबिदेवलपिप्पलाद सारस्वतोद्धवपराशरभूरिषेणाः
येऽन्ये विभीषणहनूमदुपेन्द्रदत्त पार्थार्ष्टिषेणविदुरश्रुतदेववर्याः
2.7.46
ते वै विदन्त्यतितरन्ति च देवमायां स्त्रीशूद्रहूणशबरा अपि पापजीवाः
यद्यद्भुतक्रमपरायणशीलशिक्षास् तिर्यग्जना अपि किमु श्रुतधारणा ये
2.7.47
शश्वत्प्रशान्तमभयं प्रतिबोधमात्रं शुद्धं समं सदसतः परमात्मतत्त्वम्
शब्दो न यत्र पुरुकारकवान्क्रियार्थो माया परैत्यभिमुखे च विलज्जमाना
तद्वै पदं भगवतः परमस्य पुंसो ब्रह्मेति यद्विदुरजस्रसुखं विशोकम्
2.7.48
सध्र्यङ्नियम्य यतयो यमकर्तहेतिं जह्युः स्वराडिव निपानखनित्रमिन्द्रः
2.7.49
स श्रेयसामपि विभुर्भगवान्यतोऽस्य भावस्वभावविहितस्य सतः प्रसिद्धिः
देहे स्वधातुविगमेऽनुविशीर्यमाणे व्योमेव तत्र पुरुषो न विशीर्यते ञ्जः
2.7.50
सोऽयं तेऽभिहितस्तात भगवान्विश्वभावनः
समासेन हरेर्नान्यदन्यस्मात्सदसच्च यत्
2.7.51
इदं भागवतं नाम यन्मे भगवतोदितम्
सङ्ग्रहोऽयं विभूतीनां त्वमेतद्विपुली कुरु
2.7.52
यथा हरौ भगवति नृणां भक्तिर्भविष्यति
सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय
2.7.53
मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः
शृण्वतः श्रद्धया नित्यं माययात्मा न मुह्यति
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library