Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 2 - The Cosmic Manifestation — Canto 2 - La Manifestación Cósmica >>
<< 10 - Bhāgavatam Is the Answer to All Questions >>
<< 10 - El Bhāgavatam es la respuesta a todas las preguntas >>

2..10..1श्रीशुक उवाच अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः
2..10..2दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा
2..10..3भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः
2..10..4स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः
2..10..5अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् पुंसामीशकथाः प्रोक्ता नानाख्यानोपबृंहिताः
2..10..6निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः मुक्तिर्हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः
2..10..7आभासश्च निरोधश्च यतोऽस्त्यध्यवसीयते स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते
2..10..8योऽध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः
2..10..9एकमेकतराभावे यदा नोपलभामहे त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः
2..10..10पुरुषोऽण्डं विनिर्भिद्य यदासौ स विनिर्गतः आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचीः
2..10..11तास्ववात्सीत्स्वसृष्टासु सहस्रं परिवत्सरान् तेन नारायणो नाम यदापः पुरुषोद्भवाः
2..10..12द्रव्यं कर्म च कालश्च स्वभावो जीव एव च यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया
2..10..13एको नानात्वमन्विच्छन्योगतल्पात्समुत्थितः वीर्यं हिरण्मयं देवो मायया व्यसृजत्त्रिधा
2..10..14अधिदैवमथाध्यात्ममधिभूतमिति प्रभुः अथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच्छृणु
2..10..15अन्तः शरीर आकाशात्पुरुषस्य विचेष्टतः ओजः सहो बलं जज्ञे ततः प्राणो महानसुः
2..10..16अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु अपानन्तमपानन्ति नरदेवमिवानुगाः
2..10..17प्राणेनाक्षिपता क्षुत्तृडन्तरा जायते विभोः पिपासतो जक्षतश्च प्राङ्मुखं निरभिद्यत
2..10..18मुखतस्तालु निर्भिन्नंजिह्वा तत्रोपजायते ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते
2..10..19विवक्षोर्मुखतो भूम्नो वह्निर्वाग्व्याहृतं तयोः जले चैतस्य सुचिरं निरोधः समजायत
2..10..20नासिके निरभिद्येतां दोधूयति नभस्वति तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः
2..10..21यदात्मनि निरालोकमात्मानं च दिदृक्षतः निर्भिन्ने ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः
2..10..22बोध्यमानस्य ऋषिभिरात्मनस्तज्जिघृक्षतः कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः
2..10..23वस्तुनो मृदुकाठिन्य लघुगुर्वोष्णशीतताम् जिघृक्षतस्त्वङ्निर्भिन्ना तस्यां रोममहीरुहाः तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृतः
2..10..24हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया तयोस्तु बलवानिन्द्र आदानमुभयाश्रयम्
2..10..25गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम् पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः
2..10..26निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः उपस्थ आसीत्कामानां प्रियं तदुभयाश्रयम्
2..10..27उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः
2..10..28आसिसृप्सोः पुरः पुर्या नाभिद्वारमपानतः तत्रापानस्ततो मृत्युः पृथक्त्वमुभयाश्रयम्
2..10..29आदित्सोरन्नपानानामासन्कुक्ष्यन्त्रनाडयः नद्यः समुद्राश्च तयोस्तुष्टिः पुष्टिस्तदाश्रये
2..10..30निदिध्यासोरात्ममायां हृदयं निरभिद्यत ततो मनश्चन्द्र इति सङ्कल्पः काम एव च
2..10..31त्वक्चर्ममांसरुधिर मेदोमज्जास्थिधातवः भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बुवायुभिः
2..10..32गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः मनः सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी
2..10..33एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम्
2..10..34अतः परं सूक्ष्मतममव्यक्तं निर्विशेषणम् अनादिमध्यनिधनं नित्यं वाङ्मनसः परम्
2..10..35अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः
2..10..36स वाच्यवाचकतया भगवान्ब्रह्मरूपधृक् नामरूपक्रिया धत्ते सकर्माकर्मकः परः
2..10..37-40प्रजापतीन्मनून्देवानृषीन्पितृगणान्पृथक् सिद्धचारणगन्धर्वान्विद्याध्रासुरगुह्यकान् किन्नराप्सरसो नागान्सर्पान्किम्पुरुषान्नरान् मात्रक्षःपिशाचांश्च प्रेतभूतविनायकान् कूष्माण्डोन्मादवेतालान्यातुधानान्ग्रहानपि खगान्मृगान्पशून्वृक्षान्गिरीन्नृप सरीसृपान् द्विविधाश्चतुर्विधा येऽन्ये जलस्थलनभौकसः कुशलाकुशला मिश्राः कर्मणां गतयस्त्विमाः
2..10..41सत्त्वं रजस्तम इति तिस्रः सुरनृनारकाः तत्राप्येकैकशो राजन्भिद्यन्ते गतयस्त्रिधा यदैकैकतरोऽन्याभ्यां स्वभाव उपहन्यते
2..10..42स एवेदं जगद्धाता भगवान्धर्मरूपधृक् पुष्णाति स्थापयन्विश्वं तिर्यङ्नरसुरादिभिः
2..10..43ततः कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मनः सन्नियच्छति तत्काले घनानीकमिवानिलः
2..10..44इत्थम्भावेन कथितो भगवान्भगवत्तमः नेत्थम्भावेन हि परं द्रष्टुमर्हन्ति सूरयः
2..10..45नास्य कर्मणि जन्मादौ परस्यानुविधीयते कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत्
2..10..46अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः
2..10..47परिमाणं च कालस्य कल्पलक्षणविग्रहम् यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पमथो शृणु
2..10..48शौनक उवाच यदाह नो भवान्सूत क्षत्ता भागवतोत्तमः चचार तीर्थानि भुवस्त्यक्त्वा बन्धून्सुदुस्त्यजान्
2..10..49-50क्षत्तुः कौशारवेस्तस्य संवादोऽध्यात्मसंश्रितः यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वमुवाच ह ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम् बन्धुत्यागनिमित्तं च यथैवागतवान्पुनः
2..10..51सूत उवाच राज्ञा परीक्षिता पृष्टो यदवोचन्महामुनिः तद्वोऽभिधास्ये शृणुत राअज्ञः प्रश्नानुसारतः
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library