Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 1 - Creation Canto 1 - Creación
>>
<<
7 - The Son of Droṇa Punished
>>
<<
7 - El castigo del hijo de Droṇa
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
1.7.1
शौनक उवाच
निर्गते नारदे सूत भगवान्बादरायणः
श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः
1.7.2
सूत उवाच
ब्रह्मनद्यां सरस्वत्यामाश्रमः पश्चिमे तटे
शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः
1.7.3
तस्मिन्स्व आश्रमे व्यासो बदरीषण्डमण्डिते
आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम्
1.7.4
भक्तियोगेन मनसि सम्यक्प्रणिहितेऽमले
अपश्यत्पुरुषं पूर्णं मायां च तदपाश्रयम्
1.7.5
यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम्
परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते
1.7.6
अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे
लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम्
1.7.7
यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे
भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा
1.7.8
स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम्
शुकमध्यापयामास निवृत्तिनिरतं मुनिः
1.7.9
शौनक उवाच
स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः
कस्य वा बृहतीमेतामात्मारामः समभ्यसत्
1.7.10
सूत उवाच
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे
कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः
1.7.11
हरेर्गुणाक्षिप्तमतिर्भगवान्बादरायणिः
अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रियः
1.7.12
परीक्षितोऽथ राजर्षेर्जन्मकर्मविलापनम्
संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम्
1.7.13-14
यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु
वृकोदराविद्धगदाभिमर्श भग्नोरुदण्डे धृतराष्ट्रपुत्रे
भर्तुः प्रियं द्रौणिरिति स्म पश्यन्कृष्णासुतानां स्वपतां शिरांसि
उपाहरद्विप्रियमेव तस्य जुगुप्सितं कर्म विगर्हयन्ति
1.7.15
माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना
तदारुदद्वाष्पकलाकुलाक्षी तां सान्त्वयन्नाह किरीटमाली
1.7.16
तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबन्धोः शिर आततायिनः
गाण्डीवमुक्तैर्विशिखैरुपाहरे त्वाक्रम्य यत्स्नास्यसि दग्धपुत्रा
1.7.17
इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतः
अन्वाद्रवद्दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन
1.7.18
तमापतन्तं स विलक्ष्य दूरात्कुमारहोद्विग्नमना रथेन
पराद्रवत्प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद्यथा कः
1.7.19
यदाशरणमात्मानमैक्षत श्रान्तवाजिनम्
अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः
1.7.20
अथोपस्पृश्य सलिलं सन्दधे तत्समाहितः
अजानन्नपि संहारं प्राणकृच्छ्र उपस्थिते
1.7.21
ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम्
प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह
1.7.22
अर्जुन उवाच
कृष्ण कृष्ण महाबाहो भक्तानामभयङ्कर
त्वमेको दह्यमानानामपवर्गोऽसि संसृतेः
1.7.23
त्वमाद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः
मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि
1.7.24
स एव जीवलोकस्य मायामोहितचेतसः
विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम्
1.7.25
तथायं चावतारस्ते भुवो भारजिहीर्षया
स्वानां चानन्यभावानामनुध्यानाय चासकृत्
1.7.26
किमिदं स्वित्कुतो वेति देवदेव न वेद्म्यहम्
सर्वतो मुखमायाति तेजः परमदारुणम्
1.7.27
श्रीभगवानुवाच
वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम्
नैवासौ वेद संहारं प्राणबाध उपस्थिते
1.7.28
न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम्
जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्यस्त्रतेजसा
1.7.29
सूत उवाच
श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा
स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधे
1.7.30
संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते
आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत्
1.7.31
दृष्ट्वास्त्रतेजस्तु तयोस्त्रील्लोकान्प्रदहन्महत्
दह्यमानाः प्रजाः सर्वाः सांवर्तकममंसत
1.7.32
प्रजोपद्रवमालक्ष्य लोकव्यतिकरं च तम्
मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम्
1.7.33
तत आसाद्य तरसा दारुणं गौतमीसुतम्
बबन्धामर्षताम्राक्षः पशुं रशनया यथा
1.7.34
शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात्
प्राहार्जुनं प्रकुपितो भगवानम्बुजेक्षणः
1.7.35
मैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुमिमं जहि
योऽसावनागसः सुप्तानवधीन्निशि बालकान्
1.7.36
मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम्
प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित्
1.7.37
स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः खलः
तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान्
1.7.38
प्रतिश्रुतं च भवता पाञ्चाल्यै शृण्वतो मम
आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा
1.7.39
तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा
भर्तुश्च विप्रियं वीर कृतवान्कुलपांसनः
1.7.40
सूत उवाच
एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः
नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान्
1.7.41
अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः
न्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान्हतान्
1.7.42
तथाहृतं पशुवत्पाशबद्धमवाङ्मुखं कर्मजुगुप्सितेन
निरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम च
1.7.43
उवाच चासहन्त्यस्य बन्धनानयनं सती
मुच्यतां मुच्यतामेष ब्राह्मणो नितरां गुरुः
1.7.44
सरहस्यो धनुर्वेदः सविसर्गोपसंयमः
अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात्
1.7.45
स एष भगवान्द्रोणः प्रजारूपेण वर्तते
तस्यात्मनोऽर्धं पत्न्यास्ते नान्वगाद्वीरसूः कृपी
1.7.46
तद्धर्मज्ञ महाभाग भवद्भिर्गौरवं कुलम्
वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः
1.7.47
मा रोदीदस्य जननी गौतमी पतिदेवता
यथाहं मृतवत्सार्ता रोदिम्यश्रुमुखी मुहुः
1.7.48
यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः
तत्कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम्
1.7.49
सूत उवाच
धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत्
राजा धर्मसुतो राज्ञ्याःप्रत्यनन्दद्वचो द्विजाः
1.7.50
नकुलः सहदेवश्च युयुधानो धनञ्जयः
भगवान्देवकीपुत्रो ये चान्ये याश्च योषितः
1.7.51
तत्राहामर्षितो भीमस्तस्य श्रेयान्वधः स्मृतः
न भर्तुर्नात्मनश्चार्थे योऽहन्सुप्तान्शिशून्वृथा
1.7.52
निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः
आलोक्य वदनं सख्युरिदमाह हसन्निव
1.7.53-54
श्रीभगवानुवाच
ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हणः
मयैवोभयमाम्नातं परिपाह्यनुशासनम्
कुरु प्रतिश्रुतं सत्यं यत्तत्सान्त्वयता प्रियाम्
प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च
1.7.55
सूत उवाच
अर्जुनः सहसाज्ञाय हरेर्हार्दमथासिना
मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम्
1.7.56
विमुच्य रशनाबद्धं बालहत्याहतप्रभम्
तेजसा मणिना हीनं शिबिरान्निरयापयत्
1.7.57
वपनं द्रविणादानं स्थानान्निर्यापणं तथा
एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः
1.7.58
पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया
स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम्
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library