Bhagavad-gītā As it IsEl Bhagavad-gītā Tal y como es
<< 17 - The Divisions of Faith — >>
<< 17 - Las divisiones de la fe >>

17.1अर्जुन उवाच .ये शास्त्रविधिम उत्सृज्य यजन्ते शरद्धयान्विताः .तेषां निष्ठा तु का कृष्ण सत्त्वम आहॊ रजस तमः
17.2शरीभगवान उवाच .तरिविधा भवति शरद्धा देहिनां सा सवभावजा .सात्त्विकी राजसी चैव तामसी चेति तां शृणु
17.3सत्त्वानुरूपा सर्वस्य शरद्धा भवति भारत .शरद्धामयॊ ऽयं पुरुषॊ यॊ यच्छ्रद्धः स एव सः
17.4यजन्ते सात्त्विका देवान यक्षरक्षांसि राजसाः .परेतान भूतगणांश चान्ये यजन्ते तामसा जनाः
17.5-6अशास्त्रविहितं घॊरं तप्यन्ते ये तपॊ जनाः .दम्भाहंकारसंयुक्ताः कामरागबलान्विताः .कर्शयन्तः शरीरस्थं भूतग्रामम अचेतसः .मां चैवान्तःशरीरस्थं तान विद्ध्य आसुरनिश्चयान
17.7आहारस तव अपि सर्वस्य तरिविधॊ भवति परियः .यज्ञस तपस तथा दानं तेषां भेदम इमं शृणु
17.8आयुःसत्त्वबलारॊग्यसुखप्रीतिविवर्धनाः .रस्याः सनिग्धाः सथिरा हृद्या आहाराः सात्त्विकप्रियाः
17.9कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः .आहारा राजसस्येष्टा दुःखशॊकामयप्रदाः
17.10यातयामं गतरसं पूति पर्युषितं च यत .उच्छिष्टम अपि चामेध्यं भॊजनं तामसप्रियम
17.11अफलाकाङ्क्षिभिर यज्ञॊ विधिदृष्टॊ य इज्यते .यष्टव्यम एवेति मनः समाधाय स सात्त्विकः
17.12अभिसंधाय तु फलं दम्भार्थम अपि चैव यत .इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम
17.13विधिहीनम असृष्टान्नं मन्त्रहीनम अदक्षिणम .शरद्धाविरहितं यज्ञं तामसं परिचक्षते
17.14देवद्विजगुरुप्राज्ञपूजनं शौचम आर्जवम .बरह्मचर्यम अहिंसा च शारीरं तप उच्यते
17.15अनुद्वेगकरं वाक्यं सत्यं परियहितं च यत .सवाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते
17.16मनःप्रसादः सौम्यत्वं मौनम आत्मविनिग्रहः .भावसंशुद्धिर इत्य एतत तपॊ मानसम उच्यते
17.17शरद्धया परया तप्तं तपस तत तरिविधं नरैः .अफलाकाङ्क्षिभिर युक्तैः सात्त्विकं परिचक्षते
17.18सत्कारमानपूजार्थं तपॊ दम्भेन चैव यत .करियते तद इह परॊक्तं राजसं चलम अध्रुवम
17.19मूढग्राहेणात्मनॊ यत पीडया करियते तपः .परस्यॊत्सादनार्थं वा तत तामसम उदाहृतम
17.20दातव्यम इति यद दानं दीयते ऽनुपकारिणे .देशे काले च पात्रे च तद दानं सात्त्विकं समृतम
17.21यत तु परत्युपकारार्थं फलम उद्दिश्य वा पुनः .दीयते च परिक्लिष्टं तद दानं राजसं समृतम
17.22अदेशकाले यद दानम अपात्रेभ्यश च दीयते .असत्कृतम अवज्ञातं तत तामसम उदाहृतम
17.23ओं तत सद इति निर्देशॊ बरह्मणस तरिविधः समृतः .बराह्मणास तेन वेदाश च यज्ञाश च विहिताः पुरा
17.24तस्माद ओम इत्य उदाहृत्य यज्ञदानतपःक्रियाः .परवर्तन्ते विधानॊक्ताः सततं बरह्मवादिनाम
17.25तद इत्य अनभिसंधाय फलं यज्ञतपःक्रियाः .दानक्रियाश च विविधाः करियन्ते मॊक्षकाङ्क्षिभिः
17.26-27सद्भावे साधुभावे च सद इत्य एतत परयुज्यते .परशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते .यज्ञे तपसि दाने च सथितिः सद इति चॊच्यते .कर्म चैव तदर्थीयं सद इत्य एवाभिधीयते
17.28अश्रद्धया हुतं दत्तं तपस तप्तं कृतं च यत .असद इत्य उच्यते पार्थ न च तत परेत्य नॊ इह
<< Previous Chapter — Capítulo anterior | Next Chapter — Siguiente capítulo >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library